श्री नरसिंव्हसरस्वती स्वामी महाराजांची आरती व स्तोत्रे
आरती
यतिवर्या दिनोद्धारा । ओवाळू मंगलारती ॥धृ.॥
मायागुणनियामका । परमात्मया व्यापका ।
सच्चिदानंदकंदा । अद्वया स्वयंप्रकाशका ॥१॥
गुरु क्षराक्षरातीत । आत्माराम तू निश्र्चित ॥
विश्व हा विलास तुझा । ऐसें श्रुतीप्रणीत ॥२॥
ब्रह्मा हरि महेशा । नुमगसी तूं परेशा ॥
वेदशेषा मौन पडे । वर्णिता तव येशा ॥३॥
जगदुद्धारासाठी । अवतरसी या सृष्टीं ॥
अनन्य शरणागता । तारिसी कृपादृष्टी ॥४॥
बालोन्मत जड । स्थिति दाविसी उघड ॥
विदेहपणे विचरसी । निजरूपी अखंड ॥५॥
भक्ति ज्ञान वैराग्य। स्वीकारीसी शांतियोग ॥
भाविका बोध करिसी । हरिभक्ति महद्भाग्य॥६॥
राधाकृष्णस्वामीकृपें । भेटी देसी यतिरूपें ।
निर्विकल्पें कवटाळितां। होय विष्णु दृश्य लोपें॥७॥
स्तोत्रे
खलानीशवादापनोदार्हदीक्षं, समाधिस्थमूर्तिं भजे ज्ञानदेवम् ॥१॥
अलंकापुरीरम्यसिंहासनस्थं, पदाम्भोजतेजःस्फुमरद्दिक्प्रदेशम् ।
विधीनद्रादिदेवैः सदा स्तूयमानं, समाधिस्थमूर्तिं॰ ॥२॥
गदाशंखचक्रादिभिर्भावितांगं, चिदानंदसंलक्ष्यनाट्यस्वरूपम् ।
यमाद्यष्टभेदांगयोगप्रवीणं, समाधिस्थमूर्तिं॰ ॥३॥
लुलायस्य वक्त्राच्छ्रुति पाठयन्तं, प्रतिष्ठानपुर्यां सुधींगसेव्यम् ।
चतुर्वेदतन्त्रेतिहासदिपूर्णं, समाधिस्थमूर्तिं॰ ॥४॥
सदाण्ढरीनाथपादाब्जभृंगं, निवृत्तीश्वरानुग्रहात्प्राप्ततत्त्वम् ।
महेन्द्रायणीतीरभूमौ वसन्तं, समाधिस्थमूर्तिं॰ ॥५॥
रणे कृष्णंबीभत्सुसंवादभूतोरुगीतार्थबोधाय ज्ञानेश्र्वरी वै ।
कृतिनिर्मिता येन च प्राकृतोक्त्या, समाधिस्थमूर्तिं॰ ॥६॥
चिराभ्याससंयोगसिद्धेर्बलोढ्यो, बृहद्व्याघ्रशायी महान् चांगदेवः ।
नीरीक्ष्याग्रकुड्यागतं वीतगर्वः समाधिस्थमूर्तिं॰ ॥७॥
क्चचित्तीर्थयात्रामिषेणेति नीत्वा, स्वसंवेद्यतत्वं न जानासि विष्णोः ।
ततः प्रेषितः खेचरं नामदेवः, समाधिस्थमूर्तिं॰ ॥८॥
स्तवं भावभक्यादिभिः सौख्यदेयं, पठन्तोऽर्थजातं ह्यवाप्यापि विष्णोः ।
पदं यान्ति ते ज्ञानदेवस्य नित्यं, भवाब्धिं तरन्त्यन्तकाले च भक्ताः ॥९॥
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीनरसिंव्हसरस्वतीस्वामीविरचितं श्रीज्ञानेश्वरस्तोत्रं संपूर्णम् ॥
सद्वंदद्यध्रुवप्रल्हादशुकशंकरनारदैः ।
दुर्ज्ञेयं भगवद्रूपं ध्येयस्यान्मे धिय: कथम् ॥१॥
तथापि मे मनश्चा्द्य पौर्वसंस्कारजस्मृतेः ।
ध्यातुं यतति तद्रूपं नेदं चित्रमिहोच्याते ॥२॥
सदामात्यबुधा ये तु भूपसान्निध्यगा अपि ।
स्प्रष्टुं न शक्यते तैस्तु भूपांगं शिशुना यथा ॥३॥
तथैवार्भकतुल्योऽहं ध्यायामि हृदयांबुजे ।
शंखचक्रगदापद्मकीरीटांगदनूपुरैः ॥४॥
कुंडिदंडाजिनकषायाच्छादनसुशोभितम् ।
भस्मोध्दु्लितसर्वांगं स्वर्णयज्ञोपवीतिनम् ॥५॥
निरंजनम् निर्विकारं नित्यं शुद्धं निरामयम् ।
निष्प्र्पंचं निरीहं च स्वप्रकाशं सनातनम् ॥६॥
गुणातीतं गुणाधारं गुणज्ञं गुणरंजितम् ।
सर्वरूपमयं देवं सर्वाधिष्ठानकारणम् ॥७॥
कूटस्थमिंद्रियाभासं गुह्यं गुह्यविवर्जितम् ।
तत्त्वमस्यादिलक्ष्यार्थं पूर्णमेकं च सर्वदा ॥८॥
आधारादिषु चक्रेषु भासमानं हि योगिनाम् ।
नित्यनैमित्तिकैः कृत्यैगर्भाव्यं योगिहृदिस्थितम् ॥९॥
नवधाभक्तिसंप्राप्यं ज्ञेमं ज्ञानस्वरूपकम् ।
सर्वांतःस्थं च सर्वेशं सर्वशक्तिसमन्वितम् ॥१०॥
भक्ताभीष्ट्प्रदातारं भक्तिज्ञानप्रियं प्रभुम् ।
आनंदं केवलं शांतमुपाधरिहितम् परम् ॥११॥
ध्यानाधारं ध्यानगम्यं ध्येयं ध्यानस्वरूपकम् ।
पद्माननं पद्मनेत्रं पद्माभं पद्मजाप्रियम् ॥१२॥
वासुदेवं जगन्नाथं यशोदानंदवर्धनम् ।
वेणुनादप्रियं शौरिं गोपालचयशोभितम् ॥१३॥
श्रीवत्सांकं जगद्योनिं विष्णुं कृष्णं हरिं शिवम् ।
नीलांबुधचयाभं च विद्युत्कोयटिसमप्रभम् ॥१४॥
सहस्त्रवदनांभोजं सहस्त्र वदनोज्व्लम् ।
सहस्त्ररूपदांगं च सहस्त्रादित्यसंनिभम् ॥१५॥
विश्व्हेतुं विश्वचरूपं विश्वसंहारकारणम् ।
श्रीधरं श्रीनिधिं श्रीदमात्रेयं उच्यु्तं हरिम् ॥१६॥
अनसूयावधूगर्भवर्धनं दत्तयोगिनम् ।
इंद्रनीलनिभांगं च जटामुकुटमंडितम् ॥१७॥
रघुवंशाब्धिसंदोहं राकाचंद्रसुनिर्मलम् ।
रामं राजीवनयनं रमाहृदयावासिनम् ॥१८॥
भावातीतं भवहरं भावाभवप्रकल्पदम् ।
भाव्यं भक्तानुगं भौमं क्वचिद्भक्तपरीक्षदम् ॥१९॥
योगालयं योगिगम्यं योगिहृद् पद्मसंस्थितम् ।
अस्त्यादिनश्यतीत्यंतषडूर्मिरहितम् मुनिम् ॥२०॥
ब्रह्मादिसुरमौलिस्थरत्नभास्वत्पदद्वयम् ।
त्रिविक्रमं त्रिलोकेशं त्रिष्वस्थासु साक्षिणम् ॥२१॥
त्रयीविद्याशिरोरण्यमयूरसदृशं गुरुम् ।
गोपीजनहृदोत्तुंगसागरानंदपानुजम् ॥२२॥
गोवृंदाल्हादसंदोहमंदिरं स्मरसुंदरम् ।
कंसाद्यसुरसंघाब्धिशोषणे कुंभसंभवम् ॥२३॥
स्वसंवेद्यं स्फुरद्रूपं सर्वश्क्त्युपबृंहितम् ।
दत्ता्ख्यं वैष्णवं रूपं ध्यायामि हृदि संततम् ॥२४॥
यो वै स्तुतिमिमां भक्या त्रिकालं पठते यदि ।
तत्क्षणात्सिद्धिमाप्नोति ध्या्नात् हृदि फलं किमु ॥२५॥
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमन्नृतसिंहसरस्वतीविरचितं ऋणमोचनस्तोत्रम् संपूर्णम् ॥